Please use this identifier to cite or link to this item: http://jyotih.infibnet.ac.in:8080/xmlui/handle/123456789/110
Title: शिक्षादार्शनिकराद्धान्त / Shiksha Darshanikaradhanta
Other Titles: Shiksha Darshanikaradhanta
Authors: सच्चिदानन्दः / Sacchidananda, ए पी / A P
Keywords: SSSU Books
Shree Somnath Sanskrit University Books
Sanskrit Books
Philosophy – Education
Education – Philosophy
Sanskrit - Literature
Literature - Sanskrit
Issue Date: 1-Feb-2013
Publisher: श्रीसोमनाथ संस्कृत युनिवर्सिटी, वेरावल / Shree Somnath Sanskrit University, Veraval
Abstract: सारांशः – अद्यत्वे शिक्षाजगति शिक्षाशास्त्रस्य दार्शनिकपक्षस्य सुमहान् विकासः जातः अस्ति। शिक्षायाः दार्शनिकाधारेण सम्प्रति शिक्षाजगति बहवः सम्प्रदायाः प्रचलिताःसन्ति। प्रो. ए.पी. सच्चिदानन्दवर्येण रचिते अस्मिन् पुस्तके शिक्षायाः विविधाधारेषु दार्शनिकाधारविषये विस्तरेण चर्चितमस्ति। अस्मिन् पुस्तके अष्टौ प्रकरणानि सन्ति। प्रथमप्रकरणे शिक्षादर्शनसम्प्रत्ययः (Concept of Educational Philosophy) इति विषये चर्चा कृता अस्ति। तत्र शिक्षाशब्दस्य अर्थः, शिक्षाप्रक्रिया, दर्शनस्य शिक्षया सह सम्बन्धः, शिक्षोद्देश्यानि जीवनलक्ष्याणि चेति विषयाः विवेचिताः सन्ति। द्वितीयप्रकरणं प्रकृतिवादस्य भौतिकवाददृष्ट्या शिक्षा इति विषयकम् अस्ति। अत्र शिक्षायाः परिभाषा उद्देश्यं च, छात्रस्वरूपम्, समग्रजीवनात्मकपाठ्यक्रमः, द्वन्द्वात्मकभौतिकवादः, इतिहासस्य भौतिकवादात्मकव्याख्या इत्यादिविषयेषु लेखकेन ऐतिहासिकप्रमाणपुरस्सरं स्वकीयविचाराः प्रस्तुताः सन्ति। तृतीयप्रकरणस्य नाम अस्ति - “प्रकृतिवादः शिक्षा च”। अत्र प्रकृतिवादभौतिकवादयोः तुलनां विधाय अनयोः विभिन्नाः उपभेदाः वर्णिताः सन्ति। छात्राणां प्राकृतिके विकासे शिक्षकस्य भूमिकाविषये लेखकः विभिन्नोदाहरणपूर्वकं षड्विधशिक्षणविचारविषये सम्यक् अलिखत्। चतुर्थे प्रकरणे शिक्षायां मानववादविषये लेखकः चर्चाम् अकरोत्। “शिक्षायाम् आदर्शवादः” इत्याख्ये पञ्चमप्रकरणे वस्तुनिष्ठ-प्रपञ्चात्मक-व्यक्तिवादीत्यादीनाम् आदर्शवादस्य विभिन्नान् भेदान् उपवर्ण्य आदर्शवादे शिक्षकस्य छात्रस्य च स्तिथिः कथं भवतीति विषयाः वर्णिताः सन्ति। षष्ठप्रकरणस्य नाम अस्ति शिक्षायां प्रयोगवादः। अत्र पियर्स् महोदयस्य अर्थक्रियावादः, विलिय्म् जेम्स् महोदयस्य अनुभववादः, जॉन् डिवीमहोदयस्य करणवादः, किलपैट्रिकवर्यस्य प्रयोजनवादः, प्रयोगवादस्य तत्त्वमीमांसा चेति विषयाः सम्यक्तया विवेचिताः सन्ति। उपान्तिमे “यथार्थवादः शिक्षा च” इति सप्तमे प्रकरणे यथार्थवादस्य प्रकाराः तद्भेदाः, यथार्थवादे पाठ्यक्रमः शिक्षासूत्राणि चेति विषयाणां समावेशो विद्यते। अन्तिमे “अस्तित्ववादः शिक्षा च” इति प्रकरणे मनुष्यस्य अस्तित्वं प्रतिपाद्य अस्तित्ववादानुसारं शिक्षायाः उद्देश्यानि, छात्रस्वरूपम्, शिक्षकस्य कार्याणि, शिक्षणविधिः, अनुशासनम्, शैक्षिकसम्भावनादिविषयाः निरूपिताः सन्ति। इत्थम् इदं पुस्तकम् अध्यापकानां छात्राणां च कृते महते लाभाय अस्ति।
Description: This Book Published in Sanskrit Language Authored by A P Sacchidananda. The Pages of the Book are vii, 132 p. This Book also Available in Print Format. The Price of this Book is Rs.75=00 (Seventy Five Indian Rupees). If, any Person interested to Purchase this Book kindly contact "SSSU Publication Sales Unit" on Email: salespub@sssu.ac.in / library@sssu.ac. in. An Individual can get 20% Discount + Postage and Handling Charge. Institutions get 30% Discount (need a request on Institution's letterhead) + Postage and Handling Charge. Vendor/Book Sellers get 40% Discount (need a request on their firm's letterhead) + Postage and Handling Charge.
URI: http://jyotih.infibnet.ac.in:8080/xmlui/handle/123456789/110
ISBN: 978-93-83097-08-1
Appears in Collections:Books

Files in This Item:
File Description SizeFormat 
SHIKSHADARSHANIKARADDANTH_Reduce Size.pdf18.49 MBAdobe PDFView/Open


Items in DSpace are protected by copyright, with all rights reserved, unless otherwise indicated.