Please use this identifier to cite or link to this item: http://jyotih.infibnet.ac.in:8080/xmlui/handle/123456789/119
Title: कैवल्यदिपिका- (प्रभाव्याख्यासहिता) / Kaivalya Dipika (Pabhavyakhya Sahita)
Other Titles: Kaivalya Dipika (Pabhavyakhya Sahita)
Authors: पण्डित / Pandit, श्रीकृष्ण / ShriKrishna
चौधरी / Chaudhary, Ark Nath / अर्कनाथ - Cheif Editor
आचार्य / Acharya, जानकीशरण / Janakisharan - Editor
Keywords: SSSU Books
Shree Somnath Sanskrit University Books
Prabha Commentary
Indian Philosophy
Darshanshastra – India
Philosophy – India
Prabha Commentary
Vedanta Philosophy
Advait Vedanta Philosophy
Philosophy - Advaita
Issue Date: 1-Apr-2018
Publisher: श्रीसोमनाथ संस्कृत युनिवर्सिटी, वेरावल / Shree Somnath Sanskrit University, Veraval
Series/Report no.: श्रीसोमनाथ संस्कृत विश्वविद्यालय संशोधन ग्रंथमाला / Shree Somnath Sanskrit University Research Granth Series;नंबर / No. 1
Abstract: श्रीमत्कृष्णप्रणीतम् अद्यावधि अप्रकाशितं स्वोपज्ञप्रभाव्याख्यासमन्वितं कैवल्यदीपिकाख्यं ग्रन्थरत्नं विश्वविद्यालयेन प्राकाश्यम् आनीतमस्ति। अप्रकाशितमातृकाग्रन्थोऽयम् अद्वैतवेदान्तस्य प्रकरणग्रन्थो वर्तते । यद्यपि अद्वैतवेदान्तसम्बद्धा बहवो ग्रन्था बहुत्र विद्वज्जनैः संशोधनपुरःसरं प्राकाश्यमानीताः तथाप्येदानीमपि ग्रन्थतमिलशारदादेवनागरीप्रभृतिषु नैकासु लिपिसु अमुद्रिताः ग्रन्थाः प्राच्यविद्याग्रन्थालयेषु उपलभ्यन्ते । प्रायः अष्टादशशताब्दे विरचितममुं सटीकं ग्रन्थरत्नम् आधारीकृत्य भृशं परिश्रम्य श्रीसोमानाथसंस्कृतविश्वविद्यालये प्राप्तशोधोपाधिः तत्रैव दर्शनविभागे वेदान्तशास्त्रस्य प्रवाचकत्वेन कार्यरतः डॉ. जानकीशरण आचार्य: मातृकाग्रन्थस्य सम्पादनं विहितवान्। “कृष्णः - तद्देशकालकृतिवैदुष्यादीनां विचारः” इति शीर्षकेण कैवल्यदीपिकाकारस्य देशकालादिपरिचितिः, भाषाच्छन्दोव्यवस्था, सविवरणम् उपलब्धमातृकयोः गुणदोषविचारः, स्वीकृतमातृकायाः सम्पादन पद्धतिः इत्यादयो विषया विचारितास्सन्ति । द्वितीयोऽध्यायः “कैवल्य दीपिकायाः पाठसमीक्षात्मकं सम्पादनम्” इति पाण्डुलिपिसम्पादनपद्धतिमाश्रित्य कृतो वर्तते । वस्तुतः कैवल्यदीपिकाटीकायाः महत्त्वमितोऽपि वर्तते यदियं सर्वतन्त्रस्वतन्त्राणां वाचस्पतिमिश्राणां भामतीव्याख्यानमाश्रित्य तदुपरि विरचिता वर्तते। वेदान्तसिद्धान्तनिगूढार्थप्रतिपादने टीकेय महोपकारिका पाठकानां कृते भवेदित्यत्र नास्ति संशयलेशोऽपि । सुवर्णे सुगन्धिरयं विद्यते यत् स्वयं कैवल्यदीपिकाकारः पद्यमयात्मिकायाः कैवल्यदीपिकायाः स्पष्टार्थ बोधयितुकामः स्वोपज्ञां प्रभां व्याख्या अपि चकार। “तत्प्रदीप्रकरणस्थानां विषयाणां समीक्षितमध्ययनम्” इति तृतीयेऽध्याये मङ्गलाचरणम्, अनुबन्धचतुष्टयम्, ब्रह्मणः स्वरूपतटस्थलक्षणे, साधनचतुष्टयम्, अध्यासः, जीवात्मनोः स्वरूपम्, विद्या, चिच्चातुर्विध्यम्, लक्षणा, समाधि, जीवद्विदेहमुक्ती, अद्वैतसिद्धान्तानां भामतीविवरणप्रस्थानेन सह सिद्धान्तान्तरैः तौलनिकमध्ययनम् इत्यादिविषयान् सम्यक् विचार्य “संशयच्छेदप्रदीपप्रकरणस्थानां विषयाणां समीक्षितमध्ययनम्” इत्याख्ये चतुर्थेऽध्याये ब्रह्मणः अवाङ्मनसगोचरत्वम्, वेदानाम् अपौरुषेयत्वम्, अन्तःकरणवृत्तिविचारः, विद्वदविद्वत्कर्मफलवैषम्यम्, प्रतिबिम्बवादः, ज्ञानकर्मसमुच्चयनिराकरणम्, श्रुतिवाक्यानां विरोधपरिहारः, यज्ञादिकर्मणां ब्रह्मविचारे उपयोगः, विधि विचारः, मायास्वरूपवर्णनम्, प्रतिबिम्बसत्यताविचारः, आत्मनः अखण्डार्थत्वम्, अज्ञानभूसप्तकम्, ज्ञानभूसप्तकम्, चतुर्विधस्संन्यासः, आनन्दमीमांसा इत्यादिविषया विवेचिताः सन्ति । सम्पादितस्य ग्रन्थस्यास्य परिशिष्टभागे संयोजितया विस्तृतविषयानुक्रमणिकया, पद्यानाम् आद्यपादानुक्रमणिकया, प्रयुक्तानां छन्दसां सूच्या, उदाहतानां ग्रन्थानां सूच्या, प्रभाव्याख्यायाम् उदाहृतानां श्लोकानां श्रुतिस्मृतिवाक्यानां च सूच्या, उल्लिखितानां न्यायानाञ्च सूच्या युतः एष ग्रन्थः अध्येतॄणाम् उपकाराय, जिज्ञासूनां ज्ञानाय, अनुसन्धातृणाञ्चोपकाराय च अस्ति।
Description: This Book Published in Sanskrit Language Authored by ShriKrishna Pandit; Edited by Janakisharan Acharya. The Pages of the Book are xlvi ; 489 p. This Book also Available in Print Format. The Price of this Book is Rs.425=00 (Four Hundred and Twenty Five Indian Rupees). If, any Person interested to Purchase this Book kindly contact "SSSU Publication Sales Unit" on Email: salespub@sssu.ac.in / library@sssu.ac. in. An Individual can get 20% Discount + Postage and Handling Charge. Institutions get 30% Discount (need a request on Institution's letterhead) + Postage and Handling Charge. Vendor/Book Sellers get 40% Discount (need a request on their firm's letterhead) + Postage and Handling Charge.
URI: http://jyotih.infibnet.ac.in:8080/xmlui/handle/123456789/119
ISBN: 978-93-83097-25-8
Appears in Collections:Books

Files in This Item:
File Description SizeFormat 
43 Kaivalya Dipika (Pabhavyakhya Sahita).pdf3.66 MBAdobe PDFView/Open


Items in DSpace are protected by copyright, with all rights reserved, unless otherwise indicated.