Please use this identifier to cite or link to this item: http://jyotih.infibnet.ac.in:8080/xmlui/handle/123456789/130
Title: वेदान्तपरिभाषा - केशवलालशास्त्रिकृता मूलगगर्जरभाषानुवादोपेता संस्कृतगुर्जरभाषाद्वयान्विता विमर्शनीटीकासमेता डॉ जानकीशरणआचार्यविरचितभूमिका-पादटिप्पणी-परिशिष्टैः समङ्कृता च / Vedanta Paribhasha : with Gujarati Translation and Vimarshini Commentary in Sanskrit and Gujarati by Keshavlal Shastri & Preface, critical notes and appendices by Dr Janakisharan Acharya
Other Titles: Vedanta Paribhasha : with Gujarati Translation and Vimarshini Commentary in Sanskrit and Gujarati by Keshavlal Shastri & Preface, critical notes and appendices by Dr Janakisharan Acharya
Authors: Dharmarajadharindra / श्रीमद्धर्मराजाध्वरीन्द्र
Shastri / शास्त्री, Keshavlal / केशवलाल - Gujarati Transaltor and Commnetator of Vimarshini in Sanskrit-Gujarati Language
Acharya / आचार्य, Janakisharan / जानकीशरण - editor / संपादक
Keywords: SSSU Books
Shree Somnath Sanskrit University Books
Sanskrit Books
Sanskrit Translated work
Sanskrit Compilation Work
Vimiarshini Commentary - Sanskrit and Gujarati
Vedant Philosophy
Indian Philosophy
Gujarati Translation
Keshvlal Shastri - Gujarati Translator and Commnetator
Issue Date: 1-Sep-2019
Publisher: श्रीसोमनाथ संस्कृत युनिवर्सिटी, वेरावल / Shree Somnath Sanskrit University, Veraval
Series/Report no.: श्रीसोमनाथ संस्कृत युनिवर्सिटी शास्त्रग्रंथमाला / Shree Somnath Sanskrit University Granth Series;नंबर / No. 6
Abstract: शीर्षकम् - वेदान्तपरिभाषा संस्कृत सारांशः – “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इति आत्मदर्शनविधायकश्रुतिः आत्मसाक्षात्कारमनूद्य श्रवणादिकं तत्साधनत्वेन बोधयति। “अथातो ब्रह्मजिज्ञासा” इति सूत्रं प्रणयन् भगवान् बादरायणोऽपि अमुमेवार्थमनुवदति। तथा च स्मृतिरपि “श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः। मत्त्वा च सततं ध्येय एते दर्शनहेतवः॥” इति। यद्यपि श्रवणादिसाधनरूपो विचारः अथ च वेदान्तानुमतानि प्रमाणप्रमेयप्रयोजनानि उपनिषत्सु भूरिशः उपलभ्यन्ते तथापि अतिविततगहनगन्भीरे उपनिषद्वाङ्मये मन्दमत्यधिकारिणाम् अनधिकारत्वात् तद्ग्रयहणं नैव सुकरम्, तेष्विदं प्रमाणमिदं प्रमेयमिदञ्च प्रयोजनमिति स्पष्टोल्लेखादर्शनात्। वेदान्तदर्शनं तु आत्मज्ञानविषयकमेव इति विचार्य भगवता व्यासेन चतुर्लक्षणी मीमांसा उद्वापिता। परञ्च तामपि द्वैतादिग्रहग्रहिलैरन्यथाऽन्यथा व्याख्याय प्रपीड्य परमार्थं स्वस्वाभिमतमन्तव्यपरतयैव योजितामुपलभ्य सर्वतन्त्रापरतन्त्रैः भगवद्भिः शङ्करादिभिरद्वैतपरं बादरायणस्याशयमुद्घाट्य ब्रह्मसूत्रापराभिधाना चतुर्लक्षणी मीमांसा पल्लविता पुष्पिता चेति। तस्याञ्च चतुर्लक्षण्यां वेदान्तसम्मतप्रमाणप्रमेयादीनां मीमांसा कृता। परम् आत्मविषयकमीमासेयं अतिदुरूहाऽतिविस्तृता वादिविलोडिता मन्दप्रज्ञैर्दुरवगाहाऽस्तीत्येवं सञ्चिन्त्य सकलशास्त्रपारावारीणः श्रीमद्घर्मराजाध्वरीन्द्रो वेदान्तपरिभाषानामधेयं प्रकरणगन्थं रचितवान्। अष्टभिः परिच्छेदैः परिपूर्णोऽयं प्रकरणग्रन्थः परिच्छेदषट्केषु वेदान्तसम्मतप्रमाणषट्कं निरूप्य सप्तमे वेदान्तप्रमेयं जीवब्रह्मैक्यम् अष्टमे च जीवब्रह्मैक्यावधारणफलं सपरिकरं मोक्षं प्रतिपादयति। अतिगम्भीरेषु सूत्रभाष्यतद्व्याख्यानेषु निरूपितान् अद्वैतविषयकविषयान् बोधयितुं ग्रन्थोऽयं महत्साहाय्यमाचरति। अत एव युक्तमुक्तं श्रीमद्धर्मराजाध्वरीन्दैः ब्रह्मबोधाय मन्दानां वेदान्तार्थावलम्बिनी इति। तस्मात् स्वीयाशेषसद्गुणैः उपस्कृतं व्याख्यानोपव्याख्यानैरुपोद्बलितः सर्वतो लब्धप्रतिष्ठोऽयं ग्रन्थो विजयते । वेदान्तषास्त्राब्धितितीर्षूणां दृढः प्लव एवायं प्रकरणग्रन्थः । वेदान्तदर्शने आत्मतत्त्वज्ञानाय सन्ति बहवो हि ग्रन्थाः परञ्चास्य ग्रन्थस्य प्रमाप्रमाणप्रमेयप्रतिपादन-प्रकारः सर्वानतिशेते। बहूनां वेदान्तविषयाणां परिभाषाकारेण नूतनया दृष्ट्या व्याख्यानमकारि। यथा मनसः इन्द्रियत्वनिराकरणम्, तत्त्वमसि इत्यत्र लक्षणायाः अनङ्गीकारः, शब्दादपि अपरोक्षज्ञानोत्पत्तिस्वीकारः, जातिशक्तिवादः, अर्थापत्त्यनुपलब्ध्योः पृथक्प्रमाणत्वम्, स्वतःप्रामाण्यवादः इत्यादिविषयेषु श्रीमद्धर्मराजाध्वरीन्द्राः अनितरसाधारणं स्वप्रातिभं प्रदर्शयन्ति। एते खलु न केवलं वेदान्तशास्त्रमधिकृत्य वेदान्तपरिभाषादिकं किन्तु न्यायशास्त्रमप्यधिकृत्य तर्कचूडामणिनामानं प्रबन्धमेकमलिखन्निति परिभाषोपक्रमश्लोकादेवाधिगम्यते। वेदान्तदर्शने विवरणभामतीति प्रस्थानद्वयं प्रसिद्धं वर्तते तथापि धर्मराजाध्वरीन्द्रा विवरणप्रस्थानमेव विशिष्य समाद्रियन्ते, जीवादिप्रतिबिम्बभाव-श्रवणादिविधेयक्रिया-रूपत्वादीनाम् एव परिभाषायां विशेषसमर्थनात् तद्दर्शिनां न तिरोहितमिदम्। यद्यप्यस्य ग्रन्थरत्नस्य शिखामणि-मणिप्रभा-आशुबोधिनी-अर्थदीपिका-पदार्थमञ्जूषा-परिभाषाप्रकाशिकाद्याः संस्कृतभाषया निबद्धाः बह्व्यष्टीकाः सन्ति तथापि बालानां सुखबोधाय इति धिया अथ च गुर्जरभाषिणां बहुतरात्मजिज्ञासूनां भूयांसमुपकारं दृष्ट्वा वेदान्तदर्शनमर्मज्ञैः नैकशास्त्रेषु कृतभूरिपरिश्रमैः पण्डितप्रवरैः श्रीकेशवलालशास्त्रिमहाभागैः प्रणीता संस्कृतगुर्जरभाषाद्वयान्विता विमर्शिनीनामिका व्याख्या अद्वैतवेदान्तविषयकान् गूढतमान् विषयानपि सरलया मनोहारिण्या पद्धत्या प्रकाशयति। सम्पादकेन डॉ. जानकीशरण आचार्येण महता परिश्रमेण लिखिताः टिप्पण्यः, अथ च परिशिष्टभागः वेदान्तजिज्ञासूनां कृते अत्यन्तम् उपकाराय कल्पते।
Description: This Book Published in Sanskrit and Gujarati Language Edited by Shri Dharmarajadharindra; Shri Keshavlal Shastri Commentator and Editor by Janakisharan Acharya. The Pages of the Book are 435 p. This Book also Available in Print Format. The Price of this Book is Rs.900=00 (Nine Hundred Indian Rupees). If, any Person interested to Purchase this Book kindly contact "SSSU Publication Sales Unit" on Email: salespub@sssu.ac.in / library@sssu.ac. in. An Individual can get 20% Discount + Postage and Handling Charge. Institutions get 30% Discount (need a request on Institution's letterhead) + Postage and Handling Charge. Vendor/Book Sellers get 40% Discount (need a request on their firm's letterhead) + Postage and Handling Charge.
URI: http://jyotih.infibnet.ac.in:8080/xmlui/handle/123456789/130
ISBN: 978-93-83097-36-4
Appears in Collections:Books

Files in This Item:
File Description SizeFormat 
Vedanta Paribhasha.pdf121.38 MBAdobe PDFView/Open


Items in DSpace are protected by copyright, with all rights reserved, unless otherwise indicated.